Soundarya Lahari

Wednesday, October 2, 2019

श्रीकूष्माण्डां नमाम्यहम्



।।श्रीकूष्माण्डां नमाम्यहम् ।।

कोटिसूर्यप्रभा यस्याः कूष्माण्डाऽम्बा हि सैव च । 
काशते च दिशः यस्याः श्रीकूष्माण्डां नमाम्यहम् ।।१।।

विश्वोत्पत्तिश्च मातुर्वै सर्वलोकेषु सम्भवा ।
ब्रह्माण्डं हि दधाना या तापत्रयं तथोदरे ।।२।।

आदिशक्तिर्जगन्माता अष्टभुजासमन्विता ।
शोभा हि चातुला यस्याः तां नमामि पुनः पुनः ।।३।।

कमण्डलुं धनुः शङ्खं चक्रं शूलं गदां तथा ।
बिभ्रतीं  च करे मालां नौमि कमलधारिणीम् ।।४।।

या सिंहवाहिनी माता कूष्माण्डं रोचते सदा ।
तदर्थं जगदम्बा वै कूष्माण्डा च बभूव ह ।।५।।

मातुरुपासनां कृत्वा  प्राप्नुवन्ति च ते नराः ।
चत्वारि जीवने स्वस्य  आयुर्विद्यायशोबलम् ।।६।।

चतुर्थं नवचक्रेषु विद्यतेऽनाहतं तथा  ।
तच्च हृदयचक्रं वै कथ्यते हि बुधैस्सदा।।७।।

ध्यायन्तो मुनयस्तत्र  क्रमं  चतुर्थकं यथा ।
ज्योतिर्मयस्वरूपं च पश्यन्ति च मुहुर्मुहुः ।।८।।

चक्रेऽस्मिंश्च भवत्येव द्वादशदलपङ्कजम् । 
ककारतः ठकारान्तं सर्ववर्णास्समन्विताः ।।९।।

तत्र चानाहते चक्रे वायुतत्त्वं च विद्यते ।
यद्ध्यात्वा प्राप्नुवन्त्येव योगसिद्धिं च योगिनः ।।१०।।

संसारोऽपि वशीभूतो जायते हि तत्क्षणे ।
वायुर्गत्या समर्थास्ते योगसिद्ध्या हि योगिनः ।।११।।

नश्यन्ति सर्वपापानि पूर्वजन्मकृतानि च ।
सम्मानो हि भवत्येव सर्वत्र जीवने सदा ।।१२।।

दुःखमपि सुखेनैव सर्वत्र दृष्टिगोचरम् ।
जीवेषु च समत्वं वै पश्यन्ति च पुनः पुनः ।।१३।।

आत्मारामो हि यो ज्ञानी न  किञ्चिद्दुर्लभं यथा ।
मातुश्च कृपया सर्वं प्राप्नोति योगसाधकः ।।१४।।

श्रीकूष्माण्डाजनन्याश्च महिमा गीयते जनैः ।
तां भजस्व शिवानि त्वं सर्वत्र सर्वथा मुदा ।।१५।।


डा.शिवानी शर्मा, कुरुक्षेत्रम् ।

No comments:

Post a Comment

Put in your thoughts here ...