Soundarya Lahari

Thursday, October 3, 2019

वन्देऽहं स्कन्दमातरम्



।।वन्देऽहं स्कन्दमातरम् ।।

आभा स्वर्णमयी यस्याः सर्वलोकेषु विद्यते ।
दुर्गायाः पञ्चमं रूपं प्रणौमि च पुनः पुनः ।।१।।

शिवस्य चिच्छशक्तिश्च लोककल्याणकारिणी ।
स्कन्दस्य किल या माता वन्देऽहं स्कन्दमातरम् ।।२।।

केसरीवाहनं यस्याश्चतुर्भुजा सर्वेश्वरी ।
दण्डयति हि दुष्टान् या तां देवीं  प्रणमाम्यहम् ।।३।।

करे स्कन्दं च नीत्वा वै सरसिजे च हस्तयोः ।
वरदहस्तमुद्रा हि पद्मासनां विचिन्तये ।।४।।

या माता सर्वजीवेषु चेतना ज्ञायते किल ।
भक्तानां सदा देवी बुद्धिदायिनी शुभा ।।५।।

लीला चानुपमा लोके क्रियते सततं यया।
दैत्यानां हि विनाशाय सम्भवति युगे युगे ।।६।।

सैव दुर्गा च पार्वती वै सैव सुखदा शैलजा  ।
सैव शिवप्रिया गौरी स्कन्दमात्रे नमोऽस्तु ते ।।७।।

आरोग्यदायिनी माता स्नेहमयी  सदा शुभा ।
भद्रकाली च या माता  सर्वसौभाग्यदायिनी ।।८।।

प्रियं हि भोजने मातुः पायसं शर्करायुतम् ।
सर्वफलेषु यस्यै च रोचते कदलीफलम् ।।९।।

कथं जाता यथा माता स्कन्दस्य च ब्रवीमि वै ।
दुर्गामातुः स्वरूपं हि ध्यानेन शृणु बान्धव !।।१०।।

महत्तपः कृतो येन स आसीत्  तारकासुरः ।
तपो दृष्ट्वा तथा ब्रह्मा प्रकटितो हि तत्क्षणे ।।११।।

वरं ब्रूहि महादैत्य याचस्व गौरवेण वै ।
प्रदास्यामि च सद्यो वै यद्वदति हि मां प्रति ।।१२।।

इत्थमुवाच तद्देवं तच्छ्रुत्वा तारकासुरः ।
अभिलषामि लोके वै अमरत्वं सदा सदा ।।१३।।

त्रिभुवनेषु या एका दुर्गा माताऽजराऽमरा ।
तां विहाय च नास्त्येव कश्चिद्धि जगतीतले ।।१४।।

दुर्गा हि दुर्गमा लोके कीर्तिश्च  प्रसृता यथा ।
समाकर्ण्य वचस्तस्य स वाक्यमित्थमब्रवीत् ।।१५।।

पुत्रो भवतु लोके च शिवगौरीसमन्वितः ।
मृत्युं तस्य करेणैव वाञ्छामि हे  जगत्पितः ।।१६।।

तथास्तु कथितं तेन दत्तं वै ब्रह्मणा वरम् ।
श्रीमातुश्चिन्तनं कुर्वन् ब्रह्मदेवजगाम ह ।।१७।।

शिवगौरीविवाहेन बभूव लोकमङ्गलम् ।
स्कन्दपुत्रस्तदा जातस् तारकनाशनाय च ।।१८।।

गौरीमात्रा सुतोऽयं हि स शिक्षितोऽस्त्रविद्यया ।
तदर्थं स्कन्दमाता हि लोकेषु वै  प्रकीर्तिता ।।१९।।

कार्तिकेयस्तथाज्ञेयस्स्कन्दस्यापरनाम हि ।
सेनापतिश्च देवानां जघान तारकासुरम् ।।२०।।

कण्ठचक्रं यथा ज्ञेयं नवचक्रेषु पञ्चमम् ।
विशुद्धचक्रनाम्ना वै जानन्ति चैव  साधकाः ।।२१।।

चक्रेऽस्मिन् भवत्येव षोडषदलपङ्कजम् ।
यद्ध्यात्वा प्राप्यते लोको गत्वा  निवर्तते न हि ।।२२।।

अकारः प्रथमो वर्णः व्यञ्जनस्य च वर्तते ।
शीतोष्णसुखदुःखानि चेच्छा सत्त्वरजस्तमाः ।।२३।।

प्राप्य चाकाशतत्त्वं वै समर्थास्सन्ति योगिनः।
विन्दन्ति सर्वसिद्धीश्च नात्र कोऽपि च संशयः ।।२४।।

या शुभ्रज्योत्सना तत्र दृश्यते चैव  योगिभिः ।
ध्यानं च स्कन्दमातुस्ते कुर्वन्ति योगिनस्सदा ।।२५।।

या माता इह लोके विद्यते शुभदा सदा ।
भुक्तिमुक्तिं सदा दत्ते तां ध्यायामि हि मातरम्  ।।२६।।

धन्या वै स्कन्दमाता धन्यस्स्कन्दसुतो महान् ।
धन्या जाता शिवानीयं चरितं लिखितं यया ।।२७।।

डा. शिवानी शर्मा, कुरुक्षेत्रम् ।

No comments:

Post a Comment

Put in your thoughts here ...