Soundarya Lahari

Tuesday, October 1, 2019

चन्द्रघण्टां नमाम्यहम्



।।चन्द्रघण्टां नमाम्यहम् ।।

आभा स्वर्णमयी यस्याः लोकेषु व्यापृता शुभा ।
तेजोमयी हि या माता चन्द्रघण्टां नमाम्यहम् ।।१।।

या जगज्जननी जाता हन्तुं च  महिषासुरम् ।
लोकस्य रक्षणार्थं च देवानां कार्यसिद्धये ।।२।।

निस्सृतं सर्वदेवेभ्यो दिव्यतेजो हि तत्क्षणे ।
सुन्दरी दुर्गमा दुर्गा तदा लोके बभूव ह ।।३।।

दशभुजासु शोभन्ते अस्त्रशस्त्राणि  सर्वथा ।
शंखचक्रगदापद्मं शूलं च बिभ्रती यथा ।।४।।

देवेन्द्रेण प्रदत्ता वै घण्टा देव्यै यथा शुभा ।
चन्द्राकारस्वरूपेण घण्टा विराजते तथा ।।५।।

घण्टाध्वनिं च श्रुत्वा हि देवतानां गतं भयम् ।
व्यदारयद्यथा माता दैत्यानां हृदयानि च ।।६।।

दैवैश्च जयघोषेन मातुर्नाम सुविस्तृतम् ।
चन्द्रघण्टेति नाम्ना या विख्याता भुवनेषु वै ।।७।।

सिंहो हि वाहनं यस्याः  शक्तेश्च  परिचायिका ।
नाशयति सदा दुष्टांश्चन्द्रघण्टां नमाम्यहम् ।।८।।

दुःखं हरति भक्तानां सुखसमृद्धिदायिनी ।
माधुर्यं हि ददौ तेभ्यश्चन्द्रघण्टां नमाम्यहम् ।।९।।

अजाप्येषा हि माता वै तथाऽनजा च कथ्यते ।
लक्ष्याऽलक्ष्यापि चाम्बा वै चन्द्रघण्टां नमाम्यहम् ।।१०।।

नाभिचक्रं  तृतीयं हि नवचक्रेषु विद्यते ।
मणिपूरं हि नाम्ना च सर्वत्र ज्ञायते बुधैः ।।११।।

अत्र दशदलीयं च सरसिजं हि दृश्यते ।
यस्मिन् डकारतो वर्णाः  फकारान्तं भवन्ति च ।।१२।।

विद्युन्नाभिप्रदेशे हि चाग्नितत्त्वं नु वर्तते ।
ध्यायन्ति साधका यच्च सिद्धिं वै  प्राप्नुवन्ति च ।।१३।।

यावन्न साधयन्त्येव चक्रेषु च तृतीयकम् ।
जन्ममरणतः मुक्तिर्न च प्राप्यते तैर्नरैः ।।१४।।

दिव्यशक्तिर्यथा तत्र मणिपूरे च विद्यते ।
नश्यन्ति सर्वपापानि मातुश्च दर्शनेन वै ।।१५।।

नमन्ति योगिनो यां च नमन्ति सर्वदेवताः ।।
तां वन्दस्व शिवानि ! त्वं चन्द्रघण्टां हि सर्वदा ।।१६।।

डा. शिवानी शर्मा, कुरुक्षेत्रम् ।

No comments:

Post a Comment

Put in your thoughts here ...