Soundarya Lahari

Sunday, September 29, 2019

शैलपुत्र्यै नमो नमः



।। शैलपुत्र्यै नमो नमः ।।

शैलपुत्रि नमस्तुभ्यं शिवप्रिये च धीश्वरि ।
नवदुर्गासु रूपं ते प्रथमं मन्यते बुधैः ।।१।।

श्रीशैलपर्वते वासः प्राकट्यं च बभूव ह ।
अत एव च ते नाम शैलपुत्री शुभं  सदा ।।२।।

नमन्ति मुनयस्सर्वे तथा भक्तजनास्सदा ।
देवाश्च देवलोके यां सदा सर्वत्र सर्वथा ।।३।।

सैव माता सती ज्ञेया दक्षकन्या बभूव ह ।
शङ्करस्य प्रिया सैव जानाति भुवनत्रयम् ।।४।।

वृषभो वाहनं यस्याः शूलं विराजते करे ।
धृत्वा च पङ्कजं हस्ते पाति वै  संसृतिं सदा ।।५।।

मूलाधारं यथा चक्रं ध्यायन्ति किल योगिनः ।
उपासनाक्रमस्यैव सोपानं प्रथमं तथा ।।६।।

चक्रमिदं ब्रह्मचक्रं नाम्नापि ज्ञायते बुधैः ।
यद्ध्यात्वा योगसिद्धिं च प्राप्नुवन्ति हि योगिनः ।।७।।

दृश्यते चात्र चक्रे च चतुर्दलं सरोरुहम् ।
तत्र विकसितं रूपं वाचश्चैव चतुर्विधम्।।८।।

प्रथमे च परा यत्र पश्यन्ती चापरे दले ।
तृतीये मध्यमा चैव वैखरी च  चतुर्थके ।।९।।

वाग्रूपाणि हि चत्वारि प्राप्नुवन्ति च योगिनः ।
ध्याय शैलसुतां चैव शिवानि सर्वत्र सर्वदा ।।१०।।

डा. शिवानी शर्मा, कुरुक्षेत्रम् ।

No comments:

Post a Comment

Put in your thoughts here ...